युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः। प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः। अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्। एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्। द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्। अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः। भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्। एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः। संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम्
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्। स मुहूर्तादुवाचेदं वचनं भरतर्षभ
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज। पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत। अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम्। भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव। नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः। तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्। यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत। त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः। वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
मुहूर्तादिव तं द्रोणस्तथैव समभाषत। पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत। न तु वृक्षं भवन्तं वा पश्यामीति च भारत
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः। प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः। शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः। मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्
ततस्तस्य गस्थस्य क्षुरेण निशितेन च। शिर उत्कृत्य तरसा पातयामास पाण्डवः
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्। मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः। जगाम गङ्गामभितो मज्जितुं भरतर्षभ
अवगाढमथो द्रोणं सलिले सलिलेचरः। ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्। ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव