पूजयित्वा ततो द्रोणं विधिवत्स निषादजः। निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः। यदि शिष्योऽसि मे वीर वेतनं दीयतां मम
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्। किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्। प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा
तथैव हृष्टवदनस्तथैवादीनमानसः। छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत। न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः। द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः। दुर्योधनश्च भीमश्च सदा संरब्धणानसौ
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्। तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः। प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः। अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्। एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्। द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्। अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः। भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्। एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः। संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम्
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्। स मुहूर्तादुवाचेदं वचनं भरतर्षभ
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज। पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत। अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम्। भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव। नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः। तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्। यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत। त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः। वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः