तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्। ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्। तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्। द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम्
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः। यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्। रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः। भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्। अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्। सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्। एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्। अभिगम्योपसंगृह्य जगाम शिरसा महीम्
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः। निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः। यदि शिष्योऽसि मे वीर वेतनं दीयतां मम
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्। किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्। प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा
तथैव हृष्टवदनस्तथैवादीनमानसः। छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत। न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः। द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः। दुर्योधनश्च भीमश्च सदा संरब्धणानसौ
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्। तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः। प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः। अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्। एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्। द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्। अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः। भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्। एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः। संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम्
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः