भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते। हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः। योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत। उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः। त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च। रथेषु भूमावपि च रणशिक्षामशिक्षयत्
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु। द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः। सजानो राजपुत्राश्च समाजग्मुः सहस्रशः
तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः।' ततो निषादराजस्य हिरण्यधनुषः सुतः। एकलव्यो महाराज द्रोणमभ्याजगाम ह
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्। शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया
शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः। निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः। अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा। इष्वस्त्रे योगमातस्थे परं नियममास्थितः
परया श्रद्धयोपेतो योगेन परमेण च। विमोक्षादानसन्धाने लघुत्वं परमाप सः
लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत।' अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः। रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया। राजन्ननुजगामैकः श्वानमादाय पाण्डवान्
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया। श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान्
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम्। नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे। लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह। तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा। प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्। ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्। तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्। द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम्
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः। यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्। रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः। भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्। अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्। सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्। एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्। अभिगम्योपसंगृह्य जगाम शिरसा महीम्