कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः। मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति
युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः। स्वमाश्रमपदं राजन्गमिष्यामि यथागतम्
एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः। अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम्
कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा। त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम। प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा
ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः। विशश्राम महातेजाः पूजितः कुरुवेश्मनि
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान्। शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्। भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्। पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्। रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते। कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते। अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः। प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा
अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत्। सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम्
साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत्। अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम। इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च। ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ। अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः। सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः। दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया। शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः। तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः। ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्। कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्
पुत्राय च ददौ कुम्भमविलम्बनकारणात्। यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम्
द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत। ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः। आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक्
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः। अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्। तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्
आहूय वचनं द्रोणो रहः सूदमभाषत। अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन। न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने। तेन तत्र प्रदीपः स दीप्यमानो विलोपितः