किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्। धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः
नारायणाश्च गोपालाः समरे चित्रयोधिनः। अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः। घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते। अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्। व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः
सप्तमं भारते पर्व महदेतदुदाहृतम्। यत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोणपर्वणि ये शऊरा निर्दिष्टाः पुरुषर्षभाः। अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः
अष्टौ श्लोकसहस्राणि तथा नव शतानि च। श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि। अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः। आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः। हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः। संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः। यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च। भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः। अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्येव सहस्राणि नव श्लोकशतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः। अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्। यत्र कौमारमाख्यानमभिषेकस्य कर्म च
वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः। शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे
सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः। ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः। क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः। भीमेन गदया युद्धं यत्रासौ कृतवान्सह
समवाये च युद्धस्य रामस्यागमनं स्मृतम्। सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्। दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया। नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्
एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः। संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा। मुनिना संप्रणीतानि कौरवाणां यशोभृता
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्। भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्