पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः। इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः
स मे तत्र सखा चासीदुपकारी प्रियश्च मे। तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च। स मे सखा सदा तत्र प्रियवादी प्रियंकरः
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्। अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा। तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च। एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा। सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्
शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम्। अग्निहोत्रे च सत्रे च दमे च सततं रताम्
लेभे च गौतमी पुत्रमश्वत्थामानमौरसम्। भीमविक्रमकर्माणमादित्यसमतेजसम्
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा। गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्। अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु। इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन्
विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम्। अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्
यवपिष्टोदकेनैनं लोभयेयं कुमारकम्। पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः। तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्
हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत्। द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया। नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत
इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्। आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम्
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे। परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्। पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्। प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत्। ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति। उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः
स मां निराकारमिव प्रहसन्निदमब्रवीत्। अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज। संगतनीह जीर्यन्ति कालेन परिजीर्यतः
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्। नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते। न सख्यमजरं लोके विद्यते जातु कस्यचित्
कामो वैनं विहरति क्रोधो वैनं रहत्युत। मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत्
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्। नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते। न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित्
सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः। नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा