ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः। भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा। प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्। भरतस्यान्वये जाता ये वीटां नाधिगच्छत
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्। उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः। कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम्
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता
अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते। वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः। आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्
मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धरथ
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः। स शरं समुपादाय कूपादङ्गुलिवेष्टनम्
ददौ ततः कुमाराणां विस्मितानामविस्मितः। मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः
अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते। कोऽसि कस्यासि जानीमो वयं किं करवामहे
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्। आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः
ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम्। भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च। अथैनमानीय तदा स्वयमेव सुसत्कृतम्
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः। हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्
महर्षेरग्निवेश्यस्य सकाशमहमच्युत। अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः। अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः
पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः। इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः
स मे तत्र सखा चासीदुपकारी प्रियश्च मे। तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च। स मे सखा सदा तत्र प्रियवादी प्रियंकरः
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्। अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा। तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च। एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा। सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्
शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम्। अग्निहोत्रे च सत्रे च दमे च सततं रताम्
लेभे च गौतमी पुत्रमश्वत्थामानमौरसम्। भीमविक्रमकर्माणमादित्यसमतेजसम्
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा। गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्। अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः