रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु। अहं धनमनन्तं हि प्रार्थये विपुलव्रत
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम्। ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन
तथैवेयं धरा देवी सागरान्ता सपत्तना। कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी
शरीरमात्रमेवाद्य ममेदमवशेषितम्। अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः। वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव। स प्रयोगरहस्यानि दातुमर्हस्यशेषतः
एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम।' तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः। सरहस्यव्रतं चैव धनुर्वेदमशेषतः
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः। प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः। भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत्
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः। ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम्
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा। यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्। सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः। सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्। कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत्। आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा। न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते
ययोरेव समं वित्तं ययोरेव समं श्रुतम्। तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्। मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः
स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान्। `शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा
जगाम कुरुमुख्यानां नागरं नागसाह्वयम्। तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव
स नागपुरमागम्य गौतमस्य निवेशने। भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः। अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः
एवं स तत्र गूढात्मा कंचित्कालमुवास ह। कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा। `तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम्
पपात धर्मपुत्रस्य वीटा तत्रैव चापतत्। गर्तान्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे
दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन्।' ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः। न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये
ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः। तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन्
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम्। कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्