तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्। स शुश्राव महात्मानं जामदग्न्यं परंतपम्
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्। ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह। श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः। वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम्
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः। क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम्
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम्। आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्। ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्। भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम। तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे। एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु। अहं धनमनन्तं हि प्रार्थये विपुलव्रत
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम्। ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन
तथैवेयं धरा देवी सागरान्ता सपत्तना। कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी
शरीरमात्रमेवाद्य ममेदमवशेषितम्। अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः। वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव। स प्रयोगरहस्यानि दातुमर्हस्यशेषतः
एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम।' तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः। सरहस्यव्रतं चैव धनुर्वेदमशेषतः
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः। प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः। भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत्
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः। ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम्
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा। यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्। सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः। सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्। कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत्। आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा। न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते
ययोरेव समं वित्तं ययोरेव समं श्रुतम्। तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्। मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः