कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्। कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्
कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः। एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः। भरद्वाज इति ख्यातः सततं संशितव्रतः
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्। महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः। रूपयौवनसंपन्नां मददृप्तां मदालसाम्
तस्या वायुर्नदीतीर वसनं पर्यवर्तत। व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः
तत्र संसक्तमनसो भरद्वाजस्य धीमतः। हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे
ततः समभवद्द्रोणः कलशे तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः
अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः। अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्। प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः
कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके। अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम।' भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः। तस्यापि द्रुपदो नाम तथा समभवत्सुतः
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्। पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः
भरद्वाजोऽपि भगवानारुरोह दिवं तदा। तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः। ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत। अग्निहोत्रे च धर्मे च दमे च सतत रताम्
अलभद्गौतमी पुत्रमश्वत्थामानमेव च। स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्। अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति। सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्। स शुश्राव महात्मानं जामदग्न्यं परंतपम्
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्। ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह। श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः। वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम्
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः। क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम्
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम्। आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्। ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्। भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम। तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे। एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः