अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे। पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः। व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते। सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्। ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्। भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन स हि शान्तः किरीटिना। यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्। हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः। यत्र भीमो महाबाहुः सात्यकिश्च महारथः
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया। प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि
संशप्तकावशेषं च कृतं निःशेषमाहवे। संशप्तकानां वीराणां कोट्यो नव महात्मनाम्
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्। धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः
नारायणाश्च गोपालाः समरे चित्रयोधिनः। अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः। घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते। अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्। व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः
सप्तमं भारते पर्व महदेतदुदाहृतम्। यत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोणपर्वणि ये शऊरा निर्दिष्टाः पुरुषर्षभाः। अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः
अष्टौ श्लोकसहस्राणि तथा नव शतानि च। श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि। अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः। आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः। हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः। संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः। यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च। भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः। अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्येव सहस्राणि नव श्लोकशतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः। अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्। यत्र कौमारमाख्यानमभिषेकस्य कर्म च
वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते