महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः। पुत्रः किल महाराज जातः सहशरैर्विभो
न तस्य वेदाध्ययने तथा बुद्धिरजायत। यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः। तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह
धनुर्वेदपरत्वाच्च तपसा विपुलेन च। भृशं सन्तापयामास देवराजं स गौतमः
ततो जालवतीं नाम देवकन्यां सुरेश्वरः। प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः। धनुर्बाणधरं बाला लोभयामास गौतमम्
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि। वेपथुश्चास्य सहसा शरीरे समजायत
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्। अवतस्थे महाप्राज्ञो धैर्येण परमेण ह
यस्तस्य सहसा राजन्विकारः समदृश्यत। तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च। स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च। शरस्तम्बे च पतितं द्विधा तदभवन्नृप
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः। `महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः।।' मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत। धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह। स राज्ञे दर्शयामास मिथुनं सशरं धनुः
स तदादाय मिथुनं राजा च कृपयान्वितः। आजगाम गृहानेव मम पुत्राविति ब्रुवन्
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्। प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्
कृपया यन्मया बालाविमौ संवर्धिताविति। तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः। `तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्
पितापि गौतमस्तत्र तपसा ताववन्दित। आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा
कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत्।' चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता। सोऽचिरेणैव कालेन परमाचार्यतां गतः
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्। पौत्रान्परिसमाधाय कृपमाराधयत्तदा
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः। धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः। `कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्। नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान्। इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः
द्रोणाय वेदविदुषे भारद्वाजाय धमते। पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना। स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः। शिक्षयामास च द्रोणो धनुर्वेदमशेषतः
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः। बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः