यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः। तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः। भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः। ततो नागस्य भवने कृतकौतुकमङ्गलः
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः। भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः। दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः। उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः। ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः
तत उत्थाय कौन्तेयो भीमसेनो महाबलः। आजगाम महाबाहुर्मातुरन्तिकमञ्जसा
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च। कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः। अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम्। भ्रातॄणां भीमसेनश्च महाबलपराक्रमः
नागलोके च यद्वृत्तं गुणदोषमशेषतः। तच्च सर्वमशेषेण कथयामास पाण्डवः
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्। तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः। एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा। यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत्
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे। धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम्
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम्। निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान्। गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत्
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्। `राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः।' अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते
कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि। शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान्
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः। पुत्रः किल महाराज जातः सहशरैर्विभो
न तस्य वेदाध्ययने तथा बुद्धिरजायत। यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः। तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह
धनुर्वेदपरत्वाच्च तपसा विपुलेन च। भृशं सन्तापयामास देवराजं स गौतमः
ततो जालवतीं नाम देवकन्यां सुरेश्वरः। प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः। धनुर्बाणधरं बाला लोभयामास गौतमम्
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि। वेपथुश्चास्य सहसा शरीरे समजायत
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्। अवतस्थे महाप्राज्ञो धैर्येण परमेण ह
यस्तस्य सहसा राजन्विकारः समदृश्यत। तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत