सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः। अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः
क्व गतो भविता मातर्नेह पश्यामि तं शुभे। उद्यानानि वनं चैव विचितानि समन्ततः
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्। मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः
आगताः स्म महाभागे व्याकुलेनान्तरात्मना। इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु
कथयस्व महाबाहुं भीमसेनं यशस्विनि। नहि मे शुध्यते भावस्तं वीरं प्रति शोभने
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः। इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम्। न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह। द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन्। विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम्
आगताः स्वगृहं भूय इदमूचुः पृथां तदा। न दृश्यते महाबाहुरम्ब भीमो वने चितः
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह। तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः। क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः
निहन्यादपि तं वीरं जातमन्युः सुयोधनः। तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु। प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव
दीर्घायुषस्तव सुता यथोवाच महामुनिः। आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्। कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः। तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः। सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः। तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः। भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः। ततो नागस्य भवने कृतकौतुकमङ्गलः
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः। भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः। दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः। उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः। ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः
तत उत्थाय कौन्तेयो भीमसेनो महाबलः। आजगाम महाबाहुर्मातुरन्तिकमञ्जसा
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च। कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः। अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्