अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्। धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत। यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः। बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्। एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः। प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः
ततस्तु शयने दिव्ये नागदत्ते महाभुजः। अशेत भीमसेनस्तु यथासुखमरिंदमः
दुर्योधनस्तु पापात्मा भीममाशीविषहदे। प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा
प्रभातायां रजन्यां च प्रविवेश पुरं ततः। ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि। स्वेनानुमानेन परं साधुं समनुपश्यति
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः। अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः
क्व गतो भविता मातर्नेह पश्यामि तं शुभे। उद्यानानि वनं चैव विचितानि समन्ततः
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्। मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः
आगताः स्म महाभागे व्याकुलेनान्तरात्मना। इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु
कथयस्व महाबाहुं भीमसेनं यशस्विनि। नहि मे शुध्यते भावस्तं वीरं प्रति शोभने
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः। इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम्। न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह। द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन्। विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम्
आगताः स्वगृहं भूय इदमूचुः पृथां तदा। न दृश्यते महाबाहुरम्ब भीमो वने चितः
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह। तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः। क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः
निहन्यादपि तं वीरं जातमन्युः सुयोधनः। तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु। प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव
दीर्घायुषस्तव सुता यथोवाच महामुनिः। आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्। कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः। तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः। सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्