स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः। स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत्। प्रभक्षितं च भीमेन तं वै दोषमजानता
ततो दुर्योधनस्तत्र हृदयेन हसन्निव। कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत। पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः
विहारावसथेष्वेव वीरा वासमरोचयन्। भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा। प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्
शीतं वातं समासाद्य श्रान्तो मदविमोहितः। विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्। `शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत्। सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया।' स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत्। आक्रामन्नागभवने तदा नागकुमारकान्
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः। अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्। हतं सर्पविषेणैव स्थावरं जङ्गमेन तु
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः। त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्। पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः। ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः। यथा च नो मतिर्वीर विषपीतो भविष्यति
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत। ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि। ततो वासुकिरभ्येत्य नागैनुगतस्तदा
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्। आर्यकेण च दृष्टः स पृथाया आर्यकेण च
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्। सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्। धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत। यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः। बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्। एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः। प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः
ततस्तु शयने दिव्ये नागदत्ते महाभुजः। अशेत भीमसेनस्तु यथासुखमरिंदमः
दुर्योधनस्तु पापात्मा भीममाशीविषहदे। प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा
प्रभातायां रजन्यां च प्रविवेश पुरं ततः। ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि। स्वेनानुमानेन परं साधुं समनुपश्यति