तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः। विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम्
भीमसंहननो भीमस्त्समादजरयद्विषम्। ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम्
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत्। चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः। अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया। पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः। उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः। प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः
स्पर्धते चापि सततमस्मानेव वृकोदरः। तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे
ततो जलविहारार्थं कारयामास भारत। प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च। उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा। ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्। सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः। ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह। उद्यानवनमासाद्य विसृज्य च महाजनम्
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्। उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम्। गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि
संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्। दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च
जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा। उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह। उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते। परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्। विषं प्रक्षेपयामास भीमसेनजिघांसया
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः। स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत्। प्रभक्षितं च भीमेन तं वै दोषमजानता
ततो दुर्योधनस्तत्र हृदयेन हसन्निव। कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत। पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः
विहारावसथेष्वेव वीरा वासमरोचयन्। भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा। प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्
शीतं वातं समासाद्य श्रान्तो मदविमोहितः। विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्। `शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत्। सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया।' स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत्। आक्रामन्नागभवने तदा नागकुमारकान्