अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः। मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां
प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः। स्पर्धते चापि सहितानस्मानेको वृकोदरः
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे। अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्। एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा। नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः
ततो जलविहारार्थं कारयामास भारत। चैलकम्बलवेश्मानि विचित्राणि महान्ति च
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च। तत्र संजनयामास नानागाराण्यनेकशः
उदकक्रीडनं नाम कारयामास भारत। प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह
क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः। सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः। विहारावसथेष्वेव वीरा वासमरोचयन्
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा। वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम्। शीतं वासं समासाद्य शान्तो मदविमोहितः
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ। ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः
प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले। ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान्
उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः। स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम्
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली। अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः। दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात्
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः। कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु
दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः। त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जघ्निवान्
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः। वलनेन सहामन्त्र्य सौबलस्य मते स्थितः
भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम्। कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम्
तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः। विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम्
भीमसंहननो भीमस्त्समादजरयद्विषम्। ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम्
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत्। चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः। अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया। पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः। उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः। प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः
स्पर्धते चापि सततमस्मानेव वृकोदरः। तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे
ततो जलविहारार्थं कारयामास भारत। प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च। उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा। ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः