कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्। सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन्
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः। तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्। बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः। ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा
पुरोहितसहायास्ते यथान्यायमकुर्वत।' कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः। रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्। आदाय विविशुः सर्वे पुरं वारणसाह्वयम्
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्। पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्। संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः। श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना
बहुमायासमाकीर्णो नानादोषसमाकुलः। लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति
कुरूणामनयाच्चापि पृथिवी न भविष्यति। गच्छ त्वं योगमास्थाय युक्ता वस तपोवने
माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः। तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्
अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः। सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्। वनमादाय भद्रं ते गच्छावो यदि मन्यसे
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता। वनं ययौ सत्यवती स्नुषाभ्यां सह भारत
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।। देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा। संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्। बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन्
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे। धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति
हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते। शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्। एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली। चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः। आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा। तदा पादप्रहारेण भीमः कम्पयते द्रुमान्
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः। सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः
केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः। निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः
न ते नियुद्धे न जवे न योग्यासु कदाचन। कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः। अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्। भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्
तस्य धर्मादपेतस्य पापानि परिपश्यतः। मोहादैश्वर्यलोभाच्च पापा मतिरजायत