याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः। अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः। रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्
अयमस्मानपाहाय दुःखे चाधाय शाश्वते। कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च। `बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः
अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः।' रमणीये वनोद्देशे गङ्गातीरे समे शुभे
न्यासयामासुरथं तां शिबिकां सत्यवादिनः। सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्। शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः। चन्दनेन च शुक्लेन सर्वतः समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च। अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्
संछन्नः स तु वासोभिर्जीवन्निव नराधिपः। शुशुभे स नव्याघ्रो महार्हशयनोचितः
हयमेधाग्निना सर्वे याजकाः सपुरोहिताः। वेदोक्तेन विधानेन क्रियांचक्रुः समन्त्रकम्
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनिष्ठिते। घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम्
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना। `सरलं देवदारुं च गुग्गुलं लाक्षया सह
हरिचन्दनकाष्ठैश्च हरिबेरैरुशीरकैः।' अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता। हाहा पुत्रेति कौसल्या पपात सहसा भुवि
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः। रुरोद दुःखसंतप्तो राजभक्त्या कृपाऽन्वितः
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः। मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि
तथा भीष्मः शान्तनवो विदुरश्च महामतिः। सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः। उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा। विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्। सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन्
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः। तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्। बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः। ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा
पुरोहितसहायास्ते यथान्यायमकुर्वत।' कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः। रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्। आदाय विविशुः सर्वे पुरं वारणसाह्वयम्
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्। पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्। संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः। श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना
बहुमायासमाकीर्णो नानादोषसमाकुलः। लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति