प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै। शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्। वरान्वेषणमत्रैव मातलेश्च महात्मनः
महर्षेश्चापि चरितं कथितं गालवस्य वै। विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्। योगेश्वरत्पं कृष्णेन यत्र राज्ञां प्रदर्शितम्
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः। उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः
आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः। पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्। साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः
ततो युद्धाय निर्याता नराश्वरथदन्तिनः। नगराद्धास्तिनपुराद्वलसंख्यानमेवच
यत्र राज्ञा ह्युलूकस्य प्रेषणं पाम्डवान्प्रति। श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः
रथातिरथसंख्यानमम्बोपाख्यानमेव च। एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम्। अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा
श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च। श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः। अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह। यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्
यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम्। कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः। समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः। प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः। गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः। विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह। षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे। पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः। व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते। सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्। ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्। भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन स हि शान्तः किरीटिना। यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्। हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः। यत्र भीमो महाबाहुः सात्यकिश्च महारथः
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया। प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि
संशप्तकावशेषं च कृतं निःशेषमाहवे। संशप्तकानां वीराणां कोट्यो नव महात्मनाम्