वर्तमानः सतां वृत्ते पुत्रलाभमवाप च। पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्। प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः
सा गता सह तेनैव पतिलोकमनुव्रता। तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः। यथावदनुमन्यन्तां धर्मो ह्येष सनातनः
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः। क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः। लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्। क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः। ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय। राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः
पशून्वासांसि रत्नानि धनानि विविधानि च। पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु। यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः। यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत। पाण्डुं संस्कारयामास देशे परमपूजिते
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः। निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः। शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः। अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्। अवहन् यानमुख्येन सह माद्र्या सुसंवृतम्
पाण्डुरेणातपत्रेण चामरव्यजनेन च। सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः
रत्नानि चाप्युपादाय बहूनि शतशो नराः। प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके
अथ च्छत्राणि शुभ्राणि चामराणि बृहन्ति च। आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः। अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः। रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्
अयमस्मानपाहाय दुःखे चाधाय शाश्वते। कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च। `बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः
अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः।' रमणीये वनोद्देशे गङ्गातीरे समे शुभे
न्यासयामासुरथं तां शिबिकां सत्यवादिनः। सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्। शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः। चन्दनेन च शुक्लेन सर्वतः समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च। अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्
संछन्नः स तु वासोभिर्जीवन्निव नराधिपः। शुशुभे स नव्याघ्रो महार्हशयनोचितः