साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः। तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्। पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः
अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत्। मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः
अजेयानपि जेताऽरीन्देवतादीन्न संशयः।' यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति
युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति। एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान्
एष दुर्योधनादीनां कौरवाणां च जेष्यति। वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा।' यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः। `नकुलः सहदेवश्च तावप्यमिततेजसौ
चरता धर्मनित्येन वनवासं यशस्विना। एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च। पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च। पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्। प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः
सा गता सह तेनैव पतिलोकमनुव्रता। तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः। यथावदनुमन्यन्तां धर्मो ह्येष सनातनः
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः। क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः। लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्। क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः। ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय। राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः
पशून्वासांसि रत्नानि धनानि विविधानि च। पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु। यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः। यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत। पाण्डुं संस्कारयामास देशे परमपूजिते
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः। निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः। शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः। अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्। अवहन् यानमुख्येन सह माद्र्या सुसंवृतम्
पाण्डुरेणातपत्रेण चामरव्यजनेन च। सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः
रत्नानि चाप्युपादाय बहूनि शतशो नराः। प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके
अथ च्छत्राणि शुभ्राणि चामराणि बृहन्ति च। आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च