अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः। तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः। ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः। अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह। प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः। स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः
ते परस्परमामन्त्र्य देवकल्पा महर्षयः। पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्
उदारमनसः सिद्धा गमने चक्रिरे मनः। भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे। पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला। प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्। वर्धमानपुरद्वारमाससाद यशस्विनी
द्वारिणं तापसा ऊचू राजानं च प्रकाशय। ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः
तं चारणसहस्राणां मुनीनामागमं तदा। श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः। सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः। ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत्। न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः
तथा भीष्मः शान्तनवः सोमदत्तो।ञथ बाह्लिकः। प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्
सा च सत्यवती देवी कौसल्या च यशस्विनी। राजदारैः परिवृता गान्धारी चापि निर्ययौ
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः। भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च। उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः
तथैव शिरसा भूमावभिवाद्य प्रणम्य च। उपोपविविशुः सर्वे पौरजानपदा अपि
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा। पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्। तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी। ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत्
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः। कामभोगान्परित्यज्य शतशृङ्गमितो गतः
राजा भोगान्परित्यज्य तपस्वी संबभूव ह। स यथोक्तं तपस्तेपे पत्रमूलफलाशनः
पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः। तेन वृत्तसमाचारैस्तपसा च तपस्विनः
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः। स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम्
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन्। अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ। आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि। तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान्
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा।' ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना