धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम्। यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी। अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि। संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः। हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान्
उदकुम्भांश्च परशुं समानीय तपस्विभिः। अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम्। पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा। रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज।' नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम्
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी
अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः। उदकं कृतवांस्तत्र पुरोहितमते स्थितः
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः। तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः। ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः। अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह। प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः। स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः
ते परस्परमामन्त्र्य देवकल्पा महर्षयः। पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्
उदारमनसः सिद्धा गमने चक्रिरे मनः। भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे। पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला। प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्। वर्धमानपुरद्वारमाससाद यशस्विनी
द्वारिणं तापसा ऊचू राजानं च प्रकाशय। ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः
तं चारणसहस्राणां मुनीनामागमं तदा। श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः। सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः। ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत्। न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः
तथा भीष्मः शान्तनवः सोमदत्तो।ञथ बाह्लिकः। प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्
सा च सत्यवती देवी कौसल्या च यशस्विनी। राजदारैः परिवृता गान्धारी चापि निर्ययौ
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः। भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च। उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः
तथैव शिरसा भूमावभिवाद्य प्रणम्य च। उपोपविविशुः सर्वे पौरजानपदा अपि