भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः। युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता। यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा। तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम्
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च। आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम्। भर्तुश्च मम पुत्राणामात्मनश्च न संशयः
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे। अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च। नाहं त्वमिव पुत्राणां समर्था धारणे तथा
साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः। भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम्
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः। पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम्
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा। ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान्। मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत। कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा। वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः
तादृशा न विनश्यन्ति नैव यान्ति पराभवम्। तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः। आयासकृपणा माद्री प्रत्युवाच पृथां तदा
ऋषीणां संनिधावेषां यथा वागभ्युदीरिता। दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत्
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया। वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम्
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम्। आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः। अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम्। यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी। अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि। संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः। हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान्
उदकुम्भांश्च परशुं समानीय तपस्विभिः। अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम्। पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा। रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज।' नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम्
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी
अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः। उदकं कृतवांस्तत्र पुरोहितमते स्थितः