युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः। तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः। हा विनष्टाः स्म तातेति हा अनाथा भवामहे
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः। लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे
क्षणेनैव महाराज अहो लोकस्य चित्रता। नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा। पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत्
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम्
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम्। हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम्
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम्। पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः। अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम्। तस्मिंस्तदा वनगते नष्टं राज्यमराजकम्
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः। एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया। न चावाप्तं किंचिदेव पुरा दशरथो यथा
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम। अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्। उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्
अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये
अहमेवानुयास्यामि भर्तारमपलापिनम्। न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम्
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः। समुच्छिद्यामि तत्कामं कथं नु यमसादने
मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः। न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता। तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम्
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते। तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान्
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत्। अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम्
मां हि कामयमानोऽयं राजा प्रेतवशं गतः। राज्ञः शरीरेण सह मामपीदं कलेवरम्
दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु। दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया। अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान्। ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः
सुभगे बालपुत्रा तु न मर्तव्यं तथंचन। पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान्
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान्। स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च। माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः