तं तथा शायिनं पुत्रा ऋषयः सह चारणैः। अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन्
अस्तं गतमिवादित्यं संशुष्कमिव सागरम्। दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः
समानशोका ऋषयः पाण्डवाश्च बभूविरे। ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम्। हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात्। युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते। नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि। आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम्
आजमीढाजमीढानां कर्मणा चरतां गतिम्। ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता। आवाभ्यां चैव सहितो गमिष्यसि विशांपते। मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव
विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि। यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः। तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः। हा विनष्टाः स्म तातेति हा अनाथा भवामहे
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः। लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे
क्षणेनैव महाराज अहो लोकस्य चित्रता। नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा। पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत्
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम्
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम्। हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम्
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम्। पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः। अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम्। तस्मिंस्तदा वनगते नष्टं राज्यमराजकम्
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः। एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया। न चावाप्तं किंचिदेव पुरा दशरथो यथा
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम। अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्। उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्
अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये
अहमेवानुयास्यामि भर्तारमपलापिनम्। न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम्
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः। समुच्छिद्यामि तत्कामं कथं नु यमसादने