रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने। पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत्
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने। तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः
सुपुष्पितवने काले कदाचिन्मधुमाधवे। भूतसंमोहने राजा सभार्यो व्यचरद्वनम्
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः। अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्। पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम्। तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्
समीक्षमाणः स तु तां वयःस्थां तनुवाससम्। तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्। न शशाक नियन्तुं तं कामं कामवशीकृतः
अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम्। आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम्
तत एनां बलाद्राजा निजग्राह रहोगताम्। वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्
स तु कामपरीतात्मा तं शापं नान्वबुध्यत। माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः। शापजं भयमुत्सृज्य विधिना संप्रचोदितः
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता। संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा
स तया सह संगम्य भार्यया कुरुनन्दनः। पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा
ततो माद्री समालिङ्ग्य राजानं गतचेतसम्। मुमोच दुःखजं शब्दं पुनः पुनरतीव हि
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ। आजग्मुः सहितास्तत्र यत्र राजा तथागतः
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः। एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान्। हता।हमिति विक्रुश्च सहसैवाजगाम सा
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले। कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्। कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः। सा कथं लोभितवती विजने त्वं नराधिपम्
कथं दीनस्य सततं त्वामासाद्य रहोगताम्। तं विचिन्तयतः शापं प्रहर्षः समजायत
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा। दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः
विलपन्त्या मया देवि वार्यमाणेन चासकृत्। आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता। पपात सहसा भूमौ छिन्नमूल इव द्रुमः
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा। तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम्
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे। कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम्
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव। पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम्
रक्तचन्दनदिग्धांङ्गं महारजनवाससम्। सस्मितेन च वक्त्रेण वदन्तमिव भारतम्
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया। माद्री चापि समालिङ्ग्य राजानं विललाप सा