तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः। गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ। धनुर्वेदे गतः पारं सव्यसाची परन्तपः
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो। अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान्
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम्। विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान्
ददौ पार्थाय संहृष्टो महोरगसमप्रभान्। अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः। अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः। सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम्। समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम्
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन। जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः। त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम्
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः। षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे। धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम्। द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम्। मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन्। एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम्
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः। कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः
पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान्। रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे। पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः। तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने। पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत्
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने। तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः
सुपुष्पितवने काले कदाचिन्मधुमाधवे। भूतसंमोहने राजा सभार्यो व्यचरद्वनम्
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः। अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्। पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम्। तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्
समीक्षमाणः स तु तां वयःस्थां तनुवाससम्। तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्। न शशाक नियन्तुं तं कामं कामवशीकृतः
अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम्। आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम्
तत एनां बलाद्राजा निजग्राह रहोगताम्। वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्