संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः। शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः। सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ। विस्मयं जनयामासुर्महर्षीणां समेयुषाम्
जातमात्रानुपादाय शतशृङ्गनिवासिनः। पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान्
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान्। तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः। योगध्यानपरो राजा बभूवेति च वादकाः
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः। पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः। पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन्। न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम्। वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम्
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः। कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम्
गावो हिरण्यं रौप्यं च प्रेषयामास भारत। तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम्। पूजयामास विधिवत्पाण्डुः परपुरञ्जयः
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम्। ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत्
गर्भाधानादिकृत्यानि चौलोपनयनानि च। काश्यपः कृतवान्सर्वमुपाकर्म च भारत
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः। वैदिकाध्ययने सर्वे समपद्यन्त पारगाः
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः। येन सागरपर्यन्ता धुषा निर्जिता मही
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः। आराध्य देवताः सर्वाः पितॄनपि महामतिः
शतशृह्गे तपस्तेपे शाकमूलफलाशनः। तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः। गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ। धनुर्वेदे गतः पारं सव्यसाची परन्तपः
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो। अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान्
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम्। विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान्
ददौ पार्थाय संहृष्टो महोरगसमप्रभान्। अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः। अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः। सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम्। समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम्
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन। जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः