यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्। प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्। गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः। चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते। अपत्यसंविधानेन परां कीर्तिमवाप्नुहि
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा। तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम्। तस्मात्ते भविताऽपत्यमनुरूपमसंशयम्
ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा। ततो राजसुता स्नाता शयने संविवेश ह
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ। तावागम्य सुतौ तस्यां जनयामासतुर्यमौ। नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
तथैव तावपि यमौ वागुवाचाशरीरिणी। `धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति। मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः। भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्। अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्
पूर्वजं नकुलेत्येवं सहदेवेति चापरम्। माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः। पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव
महासत्त्वा महावीर्या महाबलपराक्रमाः। पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः
मुदं परमिकां लेभे ननन्द च नराधिपः। ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्। कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्
तमुवाच पृथा राजन् रहस्युक्ता तदा सती। उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी। नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम। एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः। शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः। सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ। विस्मयं जनयामासुर्महर्षीणां समेयुषाम्
जातमात्रानुपादाय शतशृङ्गनिवासिनः। पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान्
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान्। तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः। योगध्यानपरो राजा बभूवेति च वादकाः
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः। पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः। पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन्। न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः