तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः। अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः। विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः। अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत्। पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम्
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः। मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः। पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक्। इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम्
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः। प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत्
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत। अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत्
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम्। अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च। मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप। नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा। श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता। दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि। कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति। यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते। न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्। मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्। `अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि।' कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम्
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम्। मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्। प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्। गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः। चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते। अपत्यसंविधानेन परां कीर्तिमवाप्नुहि
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा। तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम्। तस्मात्ते भविताऽपत्यमनुरूपमसंशयम्
ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा। ततो राजसुता स्नाता शयने संविवेश ह
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ। तावागम्य सुतौ तस्यां जनयामासतुर्यमौ। नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
तथैव तावपि यमौ वागुवाचाशरीरिणी। `धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति। मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा