तथा महर्षयश्चापि जेपुस्तत्र समन्ततः। गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा। त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः। ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः। विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू। इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः। ननृतुर्वै महाभागा जगुश्चायतलोचनाः
अनूचानाऽनवद्या च गुणमुख्या गुणावरा। अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा। अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा। पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी
काम्या शारद्वती चैव ननृतुस्तत्र संघशः। मेनका सहजन्या च कर्णिका पुञ्जिकस्थला
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि। उम्लोचेति च विख्याता प्रम्लोचेति च ता दश
उर्वश्येकादशी तासां जगुश्चायतलोचनाः। धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः। अजैकपादहिर्बुध्न्यः पिनाकी च परंतप
दहनोऽथेश्वरश्चैव कपाली च विशांपते। स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः। विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः। कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः
आययुस्तपसा युक्ता महाक्रोधा महाबलाः। एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः। अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः। विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः। अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत्। पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम्
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः। मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः। पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक्। इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम्
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः। प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत्
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत। अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत्
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम्। अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे