एवमुक्ता ततः शक्रमाजुहाव यशस्विनी। अथाजगाम देवेन्द्रो जनयामास चार्जुनम्
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा। जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः
जातमात्रे कुमारे तु `सर्वभूतप्रहर्षिणी। सूतके वर्तमानां तां' वागुवाचाशरीरिणी। महागम्भीरनिर्घोषा नभो नादयती तदा
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम्। कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः। एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता। तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः। चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः। मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्
ग्रामणीश्च महीपालानेष जित्वा महाबलः। भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः। एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः
एष युद्धे महादेवं तोषयिष्यति शङ्करम्। अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति
निवातकवचा नाम दैत्या विबुधविद्विषः। शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति। विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके। वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम्
बभूव पमो हर्षः शतशृङ्गनिवासिनाम्। तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम्
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः। उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः
समवेत्य च देवानां गणाः पार्थमपूजयन्। काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा। प्रजानां पतयः सर्वे सप्त चैव महर्षयः
भरद्वाजः खस्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः। यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः। दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः। उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः। गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा। त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः। ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः। विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू। इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः। ननृतुर्वै महाभागा जगुश्चायतलोचनाः
अनूचानाऽनवद्या च गुणमुख्या गुणावरा। अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा। अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा। पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी