दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः। अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः। उग्रायुधः सुषेणश्च कुण्डधारो महोदरः
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक्। उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः कुण्डशायी विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि। कवची क्रथनः कुण्डी कुण्डधारो धनुर्धरः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः। अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः। कुण्डाशी विराजाश्चैव दुःशला च शताधिका
इति पुत्रशतं राजन्कन्या चैव शताधिका। नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः। सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः
सर्वेषामनुरूपाश्च कृता दारा महीपते। धृतराष्ट्रेण समये परीक्ष्य विविवन्नृप
दुःशलां चापि समये धृतराष्ट्रो नराधिपः। जयद्रथाय प्रददौ विधिना भरतर्षभ
इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः। कन्यका दुःशला चैव यथावत्कीर्तितं मया
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत्। कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः। तत्र दैवं तु विधिना कालयुक्तेन लभ्यते
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्। अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्। यं दास्यति स मे पुत्रं स वीरयान्भविष्यति
अमानुषान्मानुषांश्च संग्रामे स हनिष्यति। कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः। दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्
आत्मना च महाबाहुरेकपादस्थितोऽभवत्। उग्रं स तप आस्थाय परमेण समाधिना
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्। सूर्येण सह धर्मात्मा पर्यतप्यत भारत
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम्। दुर्हृदां शोकजननं सर्वबान्धवनन्दनम्
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्। इत्युक्तः कारैवो राजा वासवेन महात्मना
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्। उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः
दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया। अतिमानुषकर्माणं यशस्विनमरिन्दमम्
नीतिमन्तं महात्मानमादित्यसमतेजसम्। दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्। लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते