यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च। आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्। एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते। एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः
एकादश सहस्राणि श्लोकानां षट् शतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः
अतः परं निबोधेदं वैराटं पर्व विस्तरम्। विराटनगरे गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत। यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः। दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च। चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्। गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्। ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः। अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि। प्रत्याहृतं गोधनं च विक्रमेण किरीटिना
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः। अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्। अत्रापि परिसंख्याता अध्यायाः परमर्षिणा
सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु। श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा। उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया। दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति। इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ। अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः। अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः
मद्रराजं व राजानमायान्तं पाण्डवान्प्रति। उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम। शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः। पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति
वैचित्रवीर्यस्य वचः समादाय पुरोधसः। तथेन्द्रविजयं चापि यानं चैव पुरोधसः
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति। यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्। प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया
विदुरो यत्र वाक्यानि विचित्राणि हितानि च। श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्। मनस्तापान्वितो राजा श्रावितः शोकलालसः
प्रभाते राजसमितौ संजयो यत्र वा विभो। ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः। स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम्