कथं तु संभवस्तस्या दुःशलाया वदस्व मे। यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम्
साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते। तां मांसपेशीं भगवान्स्वयमेव महातपाः
शीताभिरद्भिरासिच्य भागं भागमकल्पयत्। यो यथा कल्पितो भागस्तंत धात्र्या तथा नृप
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा। एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता
दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना। `नाब्रवीत्तमृषिं किंचिद्गौरवाच्च यशस्विनी।' मनसा चिन्तयद्देवी एतत्पुत्रशतं मम
भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः। ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि
एका शताधिका बाला भविष्यति कनीयसी। ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम
अधिका किल नारीणां प्रीतिर्जामातृजा भवेत्। यदि नाम ममापि स्याद्दुहितैका शताधिका
कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता। यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम्
गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम। एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम्
व्यभजत्स तदा पेशीं भगवानृषिसत्तमः। `गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना
अभवच्चापरं खण्डं वामहस्ते तदा किल।' गणयित्वा शतं पूर्णमंशानामाह सौबलीम्
पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता। दैवयोगाच्च भागैकः परिशिष्टः शतात्परः
एषा ते सुभगा कन्या भविष्यति यतेप्सिता
तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः। `संभूता चैव कालेन सर्वेषां च यवीयसी
ऐतत्ते कथितं राजन्दुःशलाजन्म भारत। ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ
ज्येष्ठाऽनुज्येष्ठतां तेषां नामानि च पृथक्पृथक्। धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात्प्रकीर्तय
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा। दुःसहो दुःशलश्चैव जलसन्धः समः सहः
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः। दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
विविंशतिर्विकर्णश्च शलः सत्वः सुलोचनः। चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः। अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः। उग्रायुधः सुषेणश्च कुण्डधारो महोदरः
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक्। उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः कुण्डशायी विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि। कवची क्रथनः कुण्डी कुण्डधारो धनुर्धरः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः। अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः। कुण्डाशी विराजाश्चैव दुःशला च शताधिका