चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि। मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्। व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्। `अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि। पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्। पतिव्रतामेतदेव भविता पातकं भुवि
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात्। न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात्। इति तेन पुरा भीरु मर्यादा स्थापिता बलात्
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना। सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्। तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया। अस्माकमपि ते जन्म विदितं कमलेक्षणे
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये। अत एतानि सर्वाणि कारणानि समीक्ष्य वै
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते। ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः। शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते। भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः। विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः। अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः। मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात्
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि। त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्। प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता
अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम। यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ। शृणु चेदं महाबाहो मम प्रीतिकरं चः
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने। उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः। तमहं संशितात्मानं सर्वयत्नैरतोषयम्
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्। मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। अकामो वा सकामो वा वशं ते समुपैष्यति
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति। इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः। अनुज्ञाता त्वया देवमाह्वयेयमहं नृप
यां मे विद्यां महाराज अददात्स महायशाः। तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्। अनपत्यकृतं यस्ते शोकं वीर विनेष्यति
धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया। ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता
वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका। गान्धारराजदुहिता शतपुत्रेति चानघ
उक्ता महर्षिणा तेन व्यासेनामिततेजसा। कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे
यदि भागशतं पेशी कृता तेन महर्षिणा। न प्रजास्यति चेद्भूयः सौबलेयी कथंचन