श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः। मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे
श्वेतकेतोः पिता देवि तप उग्रं समास्थितः। ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत्
शिशइरे सलिलस्थायी सह पत्न्या महातपाः। उद्दालकं तपस्यन्तं नियमेन समाहितम्
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह। अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः। स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत्। क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा। उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम्
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः। तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता। मामेवानुगता पत्नी मम नित्यमनुव्रता
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी। अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः। लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः। पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता। सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम्। यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान्
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः।' श्वेतकेतोः किल पुरा समक्षं मातरं पितुः
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत्। ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव। `तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत। दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः। शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः
तस्य पत्नी दमोपेता मम माता विशेषतः। पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम्
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः। प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः। पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः। मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम्
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः। एकया प्रजया प्रीतो मातरं ते ददाम्यहम्
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान्।' क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः। अनावृता हि सर्वेषां वर्णानामङ्गना भुवि
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः। `तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित्
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा।' ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे