अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्। भद्रा परमदुःखार्ता तन्निबोध जनाधिप
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता। पतिं विना जीवति या न सा जीवति दुःखिता
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव।। त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम्
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे। प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च। त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम्
छायेवानुगता राजन्सततं वशवर्तिनी। भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः। आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण
अभाग्यया मया नूनं वियुक्ताः सहचारिणः। तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति। दुःखं जीवति सा पापा नरकस्थेव पार्थिव
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया। तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम्। अद्यप्रभृत्यहं राजन्कुशसंस्तरशायिनी। भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा
दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम्। कृपणां चाथ करुणं विलपत्नीं नरेश्वर
एवं बहुविधं तस्यां विलपन्त्यां पुनःपुनः। तं शवं संपरिष्वज्य वाक्किलाऽन्तर्हिताऽब्रवीत्
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव। जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि
आत्मकीये वरारोहे शयनीये चतुर्दशीम्। अष्टमीं वा ऋतुस्नाता संविशेथा मया सह
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता। यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा
सा तेन सुषुवे देवी शवेन भरतर्षभ। त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम
तथा त्वमपि मय्येवं मनसा भरतर्षभ। शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्। धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह। यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे। पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः
अनावृताः किल पुरा स्त्रिय आसन्वरानने। कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्। नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः। अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः। उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते। स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचनाः
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति। अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा। रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे।' अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु। बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्