तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्। तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्। मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत। कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन। धर्मपत्नीमभिरतां त्वयि राजीवलोचने
त्वमेव तु महाबाहो मय्यपत्यानि भारत। वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया। अपत्याय च मां गच्छ त्वमेव कुरुनन्दन
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्। त्वत्तः प्रति विशिष्टश्च कोऽन्योऽस्ति भुवि मानवः
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम्। परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्
व्युषइताश्व इति ख्यातो बभूव किल पार्थिवः। पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे। उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः। व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा। व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत
सर्वभूतान्प्रति यथा तपनः शिशिरात्यये। स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः
प्राच्यानुदिच्यान्पाश्चात्यान्दाक्षिणात्यानकालयत्। अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्
बभूव स हि राजेन्द्रो दशनागबलान्वितः। अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम। व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम्
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान्। यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ
अनन्तरत्नान्यादाय स जहार महाक्रतून्। सुषाव च बहून्सोमान्सोमसंस्थास्ततान च
आसीत्काक्षीवती चास्य भार्या परमसंमता। भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि
कामयामासतुस्तौ च परस्परमिति श्रुतम्। स तस्यां कामसंपन्नो यक्ष्मणा समपद्यत
तेनाचिरेण कालेन जगामास्तमिवांशुमान्। तस्मिन्प्रेते मनुष्येन्द्रे भार्याऽस्य भृशदुःखिता
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्। भद्रा परमदुःखार्ता तन्निबोध जनाधिप
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता। पतिं विना जीवति या न सा जीवति दुःखिता
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव।। त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम्
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे। प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च। त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम्
छायेवानुगता राजन्सततं वशवर्तिनी। भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः। आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण
अभाग्यया मया नूनं वियुक्ताः सहचारिणः। तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति। दुःखं जीवति सा पापा नरकस्थेव पार्थिव
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया। तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्