देहनाशे भवेन्नाशः पितॄणामेष निश्चयः। इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः। यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम्। उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः। अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि। ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित्
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्। अपत्योत्पादने यत्नमापदि त्वं समर्थय
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता। इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः। सर्वमेवानपत्यस्य न पावनमिहोच्यते
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते। अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन्
अनपत्यो हि मरणं कामये नैव जीवितम्।' मृगाभिशापं जानासि विजने मम केवलम्। नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने। षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः। पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः। सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः
पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम्। उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः। आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत्
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि। शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति
या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी। अवाह तां तु कैकेयः शारदाण्डायनिर्महान्
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि। पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्। कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्। तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्। मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत। कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन। धर्मपत्नीमभिरतां त्वयि राजीवलोचने
त्वमेव तु महाबाहो मय्यपत्यानि भारत। वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया। अपत्याय च मां गच्छ त्वमेव कुरुनन्दन
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्। त्वत्तः प्रति विशिष्टश्च कोऽन्योऽस्ति भुवि मानवः
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम्। परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्
व्युषइताश्व इति ख्यातो बभूव किल पार्थिवः। पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे। उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः। व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः