आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा। उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्। सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः। नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः। गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः। सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा। दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः। तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्
अथ पारसवीं कन्यां देवकस्य महीपतेः। रूपयौवनसंपन्नां स सुश्रावापगासुतः
ततस्तु वरयित्वा तामानीय भरतर्षभः। विवाहं कारयामास विदुरस्य महामतेः
तस्यां चोत्पादयामास विदुरः कुरुनन्दन। पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय। धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः। देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम। कियता चैव कालेन तेषामायुश्च किं परम्
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्। कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत। कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः। एतद्विद्वन्यथान्यायं विस्तरेण तपोधन
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम्
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ। सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः। अगच्छत्परमं दुःखमपत्यार्थमरिन्दम
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः। मृगाभिशापादात्मानं शोचन्नुपरतक्रियः
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि। देहान्यासे कृतमना इदं वचनमब्रवीत्
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि। पितृदेवमनुष्याणामृषीणामथ भामिनि
एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित्। न तस्य लोकाः सन्तीति तता लोकविदो विदुः
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन्। पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान्
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः। पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते