तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्। सिद्धचारणसङ्घानां बभूव प्रियदर्शनः
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः। स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत
केषांचिदभवद्भ्राता केषांचिदभवत्सखा। ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्
स तु कालेन महता प्राप्य निष्कल्मषं तपः। ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ
अमावास्यां तु सहिता ऋषयः संशितव्रताः। ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्। भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः
समावायो महानद्य ब्रह्मलोके महात्मनाम्। देवानां च ऋषीणां च पितॄणां च महात्मनाम्। वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः। स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः। उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्। विमानशतसंबाधां गीतस्वरनिनादिताम्
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा। उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्। सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः। नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः। गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः। सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा। दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः। तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्
अथ पारसवीं कन्यां देवकस्य महीपतेः। रूपयौवनसंपन्नां स सुश्रावापगासुतः
ततस्तु वरयित्वा तामानीय भरतर्षभः। विवाहं कारयामास विदुरस्य महामतेः
तस्यां चोत्पादयामास विदुरः कुरुनन्दन। पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय। धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः। देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम। कियता चैव कालेन तेषामायुश्च किं परम्
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्। कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत। कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः। एतद्विद्वन्यथान्यायं विस्तरेण तपोधन