प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः। ततस्तस्यानुयातारस्ते चैव परिचारकाः
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः। भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्। ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः। कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने। धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः। जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्
स चैत्ररथमासाद्य कालकूटमतीत्य च। हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः। उवास स महाराज समेषु विषमेषु च
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च। शतशृङ्गे महाराज तापसः समतप्यत
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्। सिद्धचारणसङ्घानां बभूव प्रियदर्शनः
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः। स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत
केषांचिदभवद्भ्राता केषांचिदभवत्सखा। ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्
स तु कालेन महता प्राप्य निष्कल्मषं तपः। ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ
अमावास्यां तु सहिता ऋषयः संशितव्रताः। ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्। भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः
समावायो महानद्य ब्रह्मलोके महात्मनाम्। देवानां च ऋषीणां च पितॄणां च महात्मनाम्। वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः। स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः। उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्। विमानशतसंबाधां गीतस्वरनिनादिताम्
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा। उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्। सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः। नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः। गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः। सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा। दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः। तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत्