कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः। युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह
समागमश्च पाण्डूनां यत्र वैश्रवणेन च। समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना। निवातकवचैर्युद्धं हिरण्यपुरवासिभिः
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः। पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता। अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ
पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा। अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा। भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः। काम्यकागमनं चैव पुनस्तेषां महात्मनाम्
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान्। वासुदेवस्यागमनमत्रैव परिकीर्तितम्
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः। पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः। मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते। ऐन्द्रद्युम्नामुपाख्यानं तथैवाङ्गिरसं स्मृतम्
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्। द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः। घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना। धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते। व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्। जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे। चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः
रामायणमुपाख्यानमत्रैव बहुविस्तरम्। यत्र रामेण विक्रम्य निहतो रावणो युधि
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्। कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात्
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च। आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्। एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते। एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः
एकादश सहस्राणि श्लोकानां षट् शतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः
अतः परं निबोधेदं वैराटं पर्व विस्तरम्। विराटनगरे गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत। यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः। दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च। चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्। गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्। ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः