त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः। वल्कली फलमूलाशी चरिष्यामि महावने
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्। कृशः परिमिताहारश्चीरचर्मजटाधरः
शीतवातातपसहः क्षुत्पिपासानवेक्षकः। तपसा दुश्चरेणेदं शरीरमुपशोषयन्
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्। पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः। नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्। काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात्
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः। ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च
वासांसि च महार्हाणि स्त्रीणामाभरणानि च। `वाहनानि च मुख्यानि शस्त्राणि कवचानि च
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च। मणिमुक्ताप्रवालानि रत्नानि विविधानि च
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत। गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने। अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः। ततस्तस्यानुयातारस्ते चैव परिचारकाः
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः। भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्। ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः। कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने। धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः। जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्
स चैत्ररथमासाद्य कालकूटमतीत्य च। हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः। उवास स महाराज समेषु विषमेषु च
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च। शतशृङ्गे महाराज तापसः समतप्यत
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्। सिद्धचारणसङ्घानां बभूव प्रियदर्शनः
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः। स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत
केषांचिदभवद्भ्राता केषांचिदभवत्सखा। ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्
स तु कालेन महता प्राप्य निष्कल्मषं तपः। ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ
अमावास्यां तु सहिता ऋषयः संशितव्रताः। ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्। भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः
समावायो महानद्य ब्रह्मलोके महात्मनाम्। देवानां च ऋषीणां च पितॄणां च महात्मनाम्। वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः। स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः। उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्। विमानशतसंबाधां गीतस्वरनिनादिताम्