वसमानमरण्येषु नित्यं शमपरायणम्। त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः
द्वयोर्नृशंसकर्तारमवशं काममोहितम्। जीवितान्तकरो भावो मैथुने समुपैष्यति
अहं हि किंदमो नाम तपसा भावितो मुनिः। व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्
मृगो भत्वा मृगैः सार्धं चरामि गहने वने। न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः
मृगरूपधरं हत्वा मामेवं काममोहितम्। अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि
प्रियया सह संवासं प्राप्य कामविमोहितः। त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि
अन्तकाले हि संवासं यया गन्तासि कान्तया। प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्। भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया। तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत। मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम्। सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः
सतामपि कुले जाताः कर्मणा बत दुर्गतिम्। प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः
शश्वद्धर्मात्मना जातो बाल एव पिता मम। जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः। कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा। त्यक्तस्य देवैरनयान्मृगयां परिधावतः
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्। सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्
अतीव तपसात्मानं योजयिष्याम्यसंशयम्। तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्। पांसुना समवच्छन्नः शून्यागारकृतालयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः। न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः। न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः। जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति। एककालं चरन्भैक्षं कुलानि दश पञ्च च
असंभवे वा भैक्षस्य चरन्ननशनान्यपि। अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्। अलाभे यदि वा लाभे समदर्शी महातपाः
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः। नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्। जीवितं मरणं चैव नाभिन्दन्न च द्विषन्
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः। ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः। संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः। न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः
एतया सततं वृत्त्या चरन्नेवंप्रकारया। देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते। स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः